Open vvasuki opened 3 years ago
एकं॑ स॒त्यं स्प॒ष्टं क॑रोमि। तद्वाच॑कम् अ॒न्यदा॑सीदे॒तच्चा॒न्यत्। तस्मि॒न्सर्वो॒ हस्त॑लिखितो वि॒धिः। अ॒स्मिन्पुनः॑ स्वश॒ब्दो रा॑माय॒णं पठ॑तो गृही॒त्वा HTS इत्य॒नेन॑ सं॒स्कृत्य॑ स्थापि॒तः suvak.htsvoice. तस्मा॒द्ये वर्णाः॑ पठि॒तास्त ए॒वोच्चा॑रयितुं शक्यन्ते॒ यन्त्रे॑ण।
आह्। अस्तु। एवन्तर्हि +एतेषां वर्णानां वाचनं कारयित्वा ददामि चेत् सम्भवति खलु?
@vvasuki इ॒दं रा॑माय॒णस्य॑ प॒ञ्चभिः॑ श॒तैः श्लोकै॑रे॒व कृ॒तम्। तेपि॒ निर॑न्तरा आसन्। वर्णा॑नां, व्यञ्जनस्वरयो॒गानां॑, संयुक्तव्यञ्ज॒नानां॑ च वैविध्य॒ग्राह॑केण॒ केनापि॑ वि॒धाने॑न॒ न गृ॑ही॒ता आ॑सन्। अतो॑ भ॒द्रत॑रमि॒दं कर्तुं॑ म॒हान् अ॑वका॒शो व॑र्तत॒ इति॒ नात्र॑ संश॒यः। ए॒तद॑र्थं॒ मयापि॑ प्रया॒सो विहि॑त आसीद् ऋग्वे॒दस्य॑ वर्णवैविध्य॒ग्राह॑कम् ऋक्सञ्च॒यं कु॑र्व॒ता. स्व॒रेण॒ तत् पठि॑तुं॒ यत॑मानेन॒ न स॒म्यक् पठि॑तुं श॒क्तम्।
तद् यदि॒ भव॑ता का॒र्य॑मे॒व किञ्चि॑द् भ॒द्रमत्र॒ तर्हि॒ यं कमपि॑ ग्र॒न्थं निर्दि॑शतु॒ यस्मि॑न् प्रा॒येण॒ सर्वे॒ वर्णाः॒ स्युः। एक॑स्मि॒न्न स्युस्तर्हि॑ द्व॒यं त्र॒यं वा॒ निर्दि॑शतु। ततः॑ स्व॒यं कृ॒त्वा व॑र्णवैविध्य॒ग्राह॑कं वाक्यसञ्च॒यं, मया॑ वा कारयि॒त्वा केनापि॑ पाठयत्वेकश्रु॒त्या। यदि॒दं प॒ञ्चभिः॑ श॒तैः श्लोकै॑रे॒व निर्मि॑त॒मिति॒ तेन॒ न दी॒र्घस्य॒ पाठ॑स्यावश्य॒कतेति॑ स्प॒ष्टम्।
यद् वद॑ति॒ केन॑चिद् द्रविडव॒र्णान् कांश्चि॑त् पाठयि॒त्वा ते३॒॑स्मिन् यो॑ज्यन्तां॒ तन्न भ॑वेत्। भि॒न्नानां॒ जना॑ना॒म्, एक॒स्यापि॑ वा भि॒न्नेषु॑ देशका॒लेषु॑ गृही॒तानां॒ शब्दा॑नां समा॒योज॑नेन॒ न सा॒धु श्रू॑यते॒ स शब्दः॒ इत्य॒न्यैरपि॑ कथ्यत आ॒वाभ्यां॒ चापि॑ प॒रीक्ष्याव॑गतम्।
ह्म् - सद्यस्कम्परिहारान्तरं तर्हि स्फुरति।
अप्येतत् सम्भवति?
- दीर्घाव् एओकारौ तु वर्तेते। ताभ्याम् एव ह्रस्वौ ऎऒकारौ सृजतु।
@vvasuki ए॒वं क॑रिष्यते।
- ऴळयोस् स्थाने लकारं, ऱस्यस्थाने रेफञ्च वादयतु। फ़कारस्थाने च फकारः।
इ॒मान्य॑न्त्यप्रयो॒क्त्रैवादि॑श्यन्ताम्। तदे॒व वर॑म्। यथा॒ खलु॒ मय॑र्गवे॒दे ळ॑का॒रस्य॑ डका॒रो ळ्ह॑का॒रस्य॑ च ढका॒र आदि॑ष्टः।
- "अन्तᳵकरणम् अन्तᳶपश्यन्" इत्यत्रोपध्मानीयजिह्वामूलीययोर् अपि विसर्गादेशं सम्पाद्य वादयतु।
क॒रि॒ष्यते॑।
"पल-कोडि-नूऱ्-आयिरं कूऴाट्पट्टु निण्ड्रीर्गळै ऎङ्गळ् कुऴुविनिल् पुगुदलॊट्टोम्" इत्यत्र ऱ्, ऴा, ळ, ऎ, लॊ इति वर्णा नोच्चार्यन्ते। तेषाम् अपि ध्वनिरुपाद्यतां ननु नैकभारतीयभाषिकसौकर्याय, अथ दाक्षिणात्यनामवाचनसामर्थ्याय। सामवेदे क्वचिदायान्तीति कारणान्तरम्।