indic-dict / stardict-sanskrit-vyAkaraNa

3 stars 4 forks source link

Use canonical sUtra numbers in vyAkaraNa files. #3

Open vvasuki opened 7 years ago

vvasuki commented 7 years ago

The sUtra numbering in our grammar files have slight inconsistencies. The following entries will show one example:

From aShTAdhyAyI-anuvRtti
6.1.74

६.१.७४
आङ्माङोश्च
सानुवृत्ति - आङ्माङोः च तुक् संहितायाम् छे
अग्रिमम् - ६.१.७५
प्राक्तनम् - ६.१.७३
विषयः - संहितायाम्
From aShTAdhyAyI-english
6.1.74

The augment त् is added to the parcticle आ and the prohibitive particle मा , when छ follows an in a continous text.
Terms: संहितायाम्
From balamanorama
6.1.74

इको यणचि
इको यणचि। “इक” इति षष्ठी। अतः ॒षष्ठी स्थानेयोगे॑ति परिभाषया स्थान इति लभ्यते। स्थानं प्रसङ्ग इत्युक्तम्। वर्णानां वर्णान्तराधिकरणत्वाऽसम्भवात्, अचीति सतिसप्तमी। ॒तस्मिन्निति निर्दिष्टे पूर्वस्ये॑ति परिभाषाया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते। एवं चाऽचि परत इत्यर्थलभ्यम्। संहितायामित्यधिकृतम्। ततश्चार्धमात्राधिककालव्यवधानाऽभावो लभ्यते। एवं च फलितमाह-इकः स्थान इत्यादिना। इदं च सूत्राक्षरानुसारिप्राचीनमतानसारेण। ॒संहिताया॑मिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तमीं तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः। इत्थं हि तत्र भाष्यम् - ॒अयं योगः शक्योऽवक्तुम्। कथम्?। अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति। शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात्। इको यणचि अच्युपश्लिष्टस्येति। तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यती॑ति। उप=समीपे श्लेषः=संबन्धः-उपश्लेषः, तत्कृतमधिकरणमौवश्लेषिकं सामीपिकमिति यावत्। एवं चाऽच्समीपवर्तिन इक इति फलति। सामीप्यं च कालतो वर्णतश्च व्यवधानाऽभावः। एवं चाऽसंहितायामुक्तसामीप्याऽभावादेव यणभावसिद्धेः संहिताधिकारो न कर्तव्य इति भाष्यार्थः। एवं च तुस्यन्यायात्तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकरणे सप्तमी। ततश्चाऽचीत्यादिसप्तम्यन्तार्थेऽकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः। फलति। नत्वव्यवहितोच्चारिते इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात्। सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाऽभावात्मकत्वात्। एवं च तत्र नैरन्तर्यार्थं निग्र्रहणं न कर्तव्यम्। इदं च ॒स्नुक्रमो॑रिति सूत्रे, “तत्र च दीयते” इति सूत्रे च कैयटे सपष्टम्। अधिकरणत्रैविध्यं तु कारकाधिकारे ॒आधारोऽधिकरण॑मित्यत्र स्पष्टीकरिष्यते। सुधी इति। ध्यै चिन्तायामिति धातोध्र्यायतेः सम्प्रसारणं चेति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः। सुष्ठु ध्यायन्तीति सुधियः। सु=शोभना धीर्येषामिति वा सुधियः। सुधीभि रूपास्य इति विग्रहः। ॒कर्तृकरणे कृता बहुल॑मिति समासः। ॒सुपो धातुप्रातिपदिकयो॑रिति भिसो लुक्। ॒सुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः। प्रत्याह#आरेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता। तत्स्फोरणाय ईकार उदाह्मतः। ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाऽविशेषांदित्यत आह-स्थानत आन्तर्यादिति। तालुस्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकत्वादित्यर्थः। अत एव ॒यथासंख्यमनुदेशः समाना॑मिति सूत्रे भाष्यं-किमिहोदाहरणम्?। इको यणचि। दध्यत्र। मध्वत्र। नैतदस्ति। स्थानेऽन्तरतमेनाप्येतत्सिद्ध॑मिति। “स्थानेऽन्तरतम” इति सूत्रभाष्ये तु ॒किमिहोदाहरणम् ?। इको यणचि। दध्यत्र नैतदस्ति। संख्यातानुदेशेनाप्येतत्सिद्ध॑मित्युक्तम्। यथासंख्यसूत्रेणेत्यर्थः। नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्रन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाऽभावात्। गुणानामभेदकत्वेऽपि यवलाः षट् रेफश्चेति सप्त गृह्रन्ते। इक्शब्देन तु षट्षष्टिर्गृह्रत इति विषमसंख्याकत्वात्कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्?त्वयण्त्वादिनाऽनुगतीकृतानां समत्वात्। ननु ऋलवर्णाभ्यां प्रत्येकं तिं?रशदुपस्थितौ लृवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत्, श्रृणु-ऋत्वावच्छिन्नस्य रेफो भवति, लृत्त्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते। ऋत्वजातिश्च न लृवर्णेषु। लृत्वजातिश्च न ऋवर्णेषु। ऋलृवर्णयोः सावण्र्यविधिबलात्तु ऋत्वम् लृकारे, लृत्वमृकारे च आरोप्यते कार्यार्थम्। एवं च वास्तवमृत्वं लृत्वं च आदायात्र यथासंख्यप्रवृत्तिर्निर्बाधेत्यास्तां तावत्।
From kashika
6.1.74

इको यणचि ६.१.७४
अचि परतः इको यणादेशो भवति। दध्यत्र। मध्वत्र। कर्त्रर्थम्। लाकृतिः। इकः प्लुतपूर्वस्य सवर्नदीर्घबाधनार्थं यणादेशो वक्तव्यः। भो३इ इन्द्रम्। भो३यिन्द्रम्। अचि इति च अयम् अधिकारः संप्रसारणाच् च (*६,१.१०८) इति यावत्।
From laghu-kaumudi
6.1.74

इको यणचि
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥
From nyasa
6.1.74

इको यणचि।
॒इको यणादेशो भवति॑ इति। इकां यणां च साम्यात्? यथासंख्यं भवतीति वेदितव्यम्?। यश्च सवर्णोऽच्? तत्र दीर्घविधानसामथ्र्यात्? असवर्णेऽचि यणादेशो विज्ञायत इति। इक इति किम्?? वागत्रेत्यत्र कुत्वादेव सिद्धत्वाद्यणादेशो मा भूदिति। अचीति किम्?? दधि करोति।
॒प्लुतपूर्वस्य॑ इति। प्लुतः पूर्वो यस्मात्? स प्लुतपूर्वः। वक्तव्यः=व्याख्येयः। तत्रेदं व्याख्यानम्?--॒इको यणचि॑ इत्यत्र तन्त्रेण द्वौ योगावृच्चारितौ; तत्रैको यणादेशार्थः, अपरस्त्विकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थो भविष्यतीति। भो यिदम्?--भो+इ+इदमिति स्थिते “गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम्?” (८.२.८६) इत्यनेन दूराद्धूतेऽर्थे भोशब्दस्य प्लुतः कृतः, ततः सवर्णदीर्घत्वे प्राप्ते यणादेशः॥
From padamanjarI
6.1.74

आङ्माहोश्च ६.१.७४
 आङ्भाडोर्ङिद्विश्ष्टयोरुपादाने प्रयोजनमाहः--आङे ङ्ति इति। अर्थविशेषसम्पादनार्थं ङिद्विशिष्टयोरुपादानमित्यर्थः। आच्छायाया इति। ठाङ् मर्यादावचनेऽ इति कर्मप्रवचनीयसंज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी। आच्छायमिति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। माच्छिददिति। ठिरितो वाऽ इत्यङ्। आछाया, आच्छायेति। स्मरणे चात्राकारः, ठ्वाक्यस्मरणयोरैङ्त्ऽ। प्रमेति। प्रमूर्वान्माङ्ः ठातश्चोपसर्गेऽ इत्यङ्, अत्र धातोर्ङ्त्वेऽइपि टाबन्तो न ङ्त्, ठ्गामादाग्रिहणेष्वविशेषःऽ इति लाक्षणीकस्याप्यस्य ग्रहणस्य प्रसङ्गः। अत्रोभयत्रापि ठ्पदान्ताद्वाऽ इति विकल्प एव भवति ॥
From siddhAnta-kaumudI
6.1.74

आङ्माङोश्च ६.१.७४
 एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे {*149*}ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥
From tattvabodhini
6.1.74

इको यणचि
इकोयणचि। प्रत्याहारग्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा, ॒यूस्त्र्याख्यौ॑ ॒ल्वादिभ्यः॑ इति च निर्देशात्। तेन इक्शब्देन षट्?षष्टिर्गृह्रन्ते, यण्शब्देन चत्वारः, भाव्यमानस्याऽणः सवर्णाग्राहकत्वात्। एवं चेह यणि तद्वाच्यवाच्ये लक्षणा तु न शङ्क्यैव, भाव्यमानस्याऽणः सवर्णग्राहकत्वाऽभावेन यण्वाच्ययकारादिवाच्यानामभावात्। अतो नास्ति यथासङ्ख्यम्। न च लक्ष्यार्थबोधात्पूर्वभाविनं शक्यार्थज्ञानमादाय यथासङ्ख्यमस्त्विति वाच्यम्; एवमपि तृतीयचतुर्थाभ्युमृकारलृकाराभ्यां प्रत्येकं तिं?रशदुपस्थितौ लृवर्णानां रेफादेशस्य, ॠवर्णानां लादेशस्य च प्रसङ्गात्। तस्मादिह ॒स्थानेऽन्तरतमः॑ इति सूत्रेणैवेष्टसिद्धिरित्यनुपदं वक्ष्यति-॒स्थानत आन्तर्या॑दिति। अचीति। ॒कस्मादचि परे॑ इत्याकाङ्क्षायामर्थादिक इति संबध्यते। संहितायां विषय इति। ॒दध्यत्रे॑-त्यादौ कार्यिनिमित्तयोर्यदाऽतिशयितसंनिधिर्विवक्ष्यते तदैव यण्भवतीति भावः।

This results in a bad experience for users, making coherent lookups impossible. This is also an impediment in presenting all commentaries together programmatically.

Solution: sUtra-s in all files should be numbered according to a canonical sUtrapATha ( I recommend https://docs.google.com/spreadsheets/d/1208pyOsYiZlS5fmm8tYEq2qbCzqWgPnMYNUf1-1uRJM/edit?usp=drive_web ), with sUtra-s appearing in only one pATha (such as one followed by say kAshikA but not others) given special numbers/ identifiers. @drdhaval2785 - interested in taking this up?

drdhaval2785 commented 7 years ago

I am definitely interested in taking this up. Will take some time. But with the following logic I guess I will be able to present a decent enough item.

1. Prepare a window of 5+ and 5- for given sUtra number e.g. 1.4.34 - range would be 1.4.29 to 1.4.39
2. If the canonical database 1.4.34 is an exact match or edit-distance of <3, keep it as it is.
3. Otherwise calculate the edit-distance of 10 sUtras in the range of +5 or -5. Identify the nearest match.
vvasuki commented 7 years ago
  1. Prepare a window of 5+ and 5- for given sUtra number e.g. 1.4.34 - range would be 1.4.29 to 1.4.39
  2. If the canonical database 1.4.34 is an exact match or edit-distance of <3, keep it as it is.
  3. Otherwise calculate the edit-distance of 10 sUtras in the range of +5 or -5. Identify the nearest match.

अत्रेयं भवति समस्या - 6.1.74 इत्यन्विष्यति चेज् जनः, किमु ६ सूत्राणि (6.1.74 -3, 6.1.74 +3) दर्शनीयानि? न खलु तद् भवति युक्तम् उपयोक्तृभ्यः। hence I'd recommend dropping :

  1. If the canonical database 1.4.34 is an exact match or edit-distance of <3, keep it as it is.

Rather, it is ok to keep the original numbering also if it is different - but prepend it with some string, such as: kAs1.4.34 for a sUtra numbering 1.4.34 which differs from the canonical pATha number (say 1.4.32).

drdhaval2785 commented 7 years ago

OK. I will try ASAP and let you know the results.

gasyoun commented 7 years ago

canonical sUtrapATha

What is the book source?