kmadathil / sanskrit_parser

Parsers for Sanskrit / संस्कृतम्
MIT License
68 stars 21 forks source link

hyphenator improvements #175

Open vvasuki opened 2 years ago

vvasuki commented 2 years ago

https://github.com/kmadathil/sanskrit_parser/blob/master/sanskrit_parser/output_utils/__init__.py इत्यस्य चालनेन

श्रुतिभगवतीचरणप्रतीका छन्दोविचितिरिति वेदाङ्गविदः समामनन्ति । अस्य चरणयुगलस्य गतिरेव च्छन्दःसुषमेति तन्मर्मविदां प्रेक्षा ।

इति पाठाद्

श्रुति-भगवती-चरण-प्रतीका छन्दोविचितिः-इति वेदाङ्ग-विदः समाम-नन्ति । अस्य चरण-युगलस्य गति-रेव च्छन्दःसुषमेति तद्-मर्मविदाम् प्रेक्षा ।

इति लभ्यते।

पुरा त्व् अविनाशेन "श्रुति-भगवती-चरण-प्रतीका छन्दोविचितिर् इति वेद-अङ्ग-विदः सम-आम-नन्ति । अस्य चरण-युगलस्य गतिर् एव च्छन्दःसुषमेति तत्-मर्म-विदाम् प्रेक्षा ।" इति लब्धुं शक्यत इत्य् उक्तम्। तत् कथं लभ्यताम्?

अग्रिमापेक्षाः

अग्रे किञ्चित् परिष्कारा ‌/ अपवादास् त्व् इष्टाः -

फलं लब्ध्वा तत्परिणामेन +एवं लभेय। सन्धिकरणे ऽपेक्षिते सत्य् अन्तिमवर्णस्य किं कार्यम्? नाम, युष्मद्यन्त्रं "गतिः एव" इति ददाति, ततः "गतिर् एव" इति सरिक्तस्थानं कथं लभेय? गुणसन्धौ ऽ-प्राप्तौ वा सति प्राक्तनवर्णाः स्थापनीयाः। तदर्थम् प्रायेण संहितायाम् अक्षरनैय्यून्यम् द्रष्टव्यं स्यात्।